Stories by Uma Jayaraman on Medium
River bank is far, wind is blowing hard, oh boatman, keep rowing the broken boat tirelessly!
प्रायशः अहं पाककार्येषु यदा व्यापृता भवामि, तदा गीतानि शृण्वती एव पचामि, पाककार्यं सम्पादयामि। श्लोकाः, हिन्दीभाषायां विरचितानि भजन-गीतानि, प्राचीन-चलच्चित्र-गीतानि, सुगम-सङ्गीतम् इत्युक्ते चलचित्रेतरगीतानि, हिन्दुस्तानी-शास्त्रीय-सङ्गीतम्, उर्दूभाषायां भावप्रधानानि गज़ल्-गीतानि इति यथा भारतस्य अन्यासु विधासु बहवः विकल्पाः वर्तन्ते तथैव भारतीयसङ्गीतस्य क्षेत्रे अपि वैविध्यं दृश्यते।
अद्य अहं प्रातराशनार्थम् इडली-क्वथितं (साम्भारं) च पक्ववती। पचनात् पूर्वं गीतानां चयनम् अकरवम् । यथा मम मनसः स्थितिः भवेत् (“mood”!!) तदनुगुणमेव भवति गीतानां चयनम् अपि!मन्नाडे-गायकस्य गीतानि एकत्र सङ्गृहीतानि आसन्। तानि श्रोतुं श्रावण-यन्त्रं नुदितवती। तदा
दूर है किनारा गहरी नदी की धारा, टूटी तेरी नैया, माँझी , खेते जाओ रे!
इति गीतं श्रुतिपथे आगतम्। तस्य गीतस्य एकैकं पदं श्रावं श्रावं अद्य मम अनुभूतिः अनिर्वचनीया आसीत् । एतत् गीतं बहुशः श्रुतपूर्वम् एव। तथापि अद्यतन सन्दर्भे अस्य गीतस्य भावः, लययुक्तस्य मधुरस्य गानस्य प्रभावः तु अद्भुतम् आसीत् मम मनसि।
“भोः नाविक! तव नौका तु लघ्वी, जीर्णा-शीर्णा च, त्रुटिता अपि भाति, गभीरः अयं सागरः, उन्नताः च वीचयः! कथं विशालं सागरं तरीतुं पारयसि?”इति आरम्भे पङ्क्तौ वदन्, गायकः गानस्य अन्ते सकारात्मकेन सङ्कल्पेन निश्चयेन घोषयति, उद्बोधयति च -
“जीत है उसी की जिसने मानी नहीं हार, खेते जाओ रे!!”
“सः एव जेष्यति यः कासु अपि अवस्थासु पराजयात् भीतः सन् पराङमुखः न भविष्यति! भोः नाविक! अग्रे सरतु नाम!”
यः श्रमशीलः सः न पराजयते इति कश्चन उदात्तः भावः।अस्य गीतस्य श्रवणेन अनायासेन एव कालिदासस्य श्लोकद्वयं अहं स्मृतवती।
क्व सूर्यप्रभवः वंशः क्व चाल्पविषया मतिः।
तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम्।।
(रघुवंशम्)
कुत्र रघूणां उदात्तः वंशः, कुत्र च मम अल्पं ज्ञानम्? मम दशा तु हास्यास्पदं भवेत् यतः लघुनौकां वहन् अहं विशालं सागरं तरीतुम् उत्सहे।
पुराणमित्येव न साधु सर्वं न चापि काव्यं नवमित्यवद्यम्।
सन्तः परीक्ष्यान्यतरत् भजन्ते मूढः परप्रत्ययनेयबुद्धिः।।
(मालविकाग्निमित्रम्)
नूतना मम रचना इति मत्वा एषा न हेया, नैव पुरातनी इति कारणात् एव कापि रचना श्लाघ्या स्यात्। ये सन्तः काव्यपरीक्षणे निष्णाताः सन्ति, ते तु परीक्ष्य एव का रचना श्लाघ्या, का न इति निर्णेतुं समर्थाः भवन्ति। अन्ये ये मूढाः ते तु अन्धाः इव केवलं अन्येषां वचनं स्वीकृत्य मेषाः इव मार्गम् अनुसरन्ति।
इति शम्!
Kalidasa and Indian(political) Culture 3
(राजनीतिः)
उत्तमाः राजानः कथं शासति इति रघुकुलवंशीयानां राज्ञां विषये वर्णयन् कविकुलगुरुः अनेकान् विषयान् सूचितवान्।
१. करग्रहणं प्रशासनस्य एकः प्रमुखः अंशः। राज्यस्य पालने प्रचुरस्य धनस्य आवश्यकता भवति एव। तत् धनं प्रजाभ्यः स्वीकरणीयं भवेत्। किन्तु यथा कर-दानं प्रजानां कर्तव्यं तथैव तस्य प्रजाभ्यः हिताय विनिमयम् अपि राज्ञः परमं कर्तव्यम्। दिलीपः राजा तु एतस्य विषये सर्वोपरि अतिष्ठत्।
प्रजानामेव भूत्यर्थं स तेभ्यो बलिमग्रहीत्।
सहस्रगुणमुत्स्रष्टुम् आदत्ते हि रसः रविः।।
दिलीपः कररूपेण स्वीकृतस्य धनस्य अपेक्षया सहस्रगुणम् अधिकं प्रजाभ्यः यच्छति स्म। यथा सूर्यः पृथिव्या जलं बाष्परूपेण गृह्णाति तथा तत् जलं वृष्टरूपेण पृथिव्य़ै एव समर्पयति तथैव दिलीपः अपि करेण स्वीकृतस्य वित्तस्य विनिमयम् अकरोत्!
२. रघुवंशीयाः राजानः प्रजानां पितरः इव आसन्। यथा पिता सन्ततिम् अनुशास्ति, सत्पथे चोदयति, तां रक्षति, अन्नादीन् च तस्यै दत्त्वा परिपालयति तथैव दिलीपः राजा अपि प्रजासु महतीं प्रीतिं प्रकटयति स्म। प्रजानां विनयाधानात्, रक्षणात्, पोषणात् च सः तासां पिता इव अभूत्।
प्रजानां विनयाधानाद् रक्षणाद् भरणादपि ।
स पिता पितरस्तासां केवलं जन्महेतवः ॥१ .२४॥
३. कालिदासः आदर्शः राजनीतिः कथं भवेयुः इति दिलीपादीनां दृष्टान्तेन सम्यक् वर्णितवान्। राजनीत्यां राज्ञः राज्यस्य हितचिन्तनम् एकमेव उद्देश्यं भूयात्। यदि राज्ञः वैयक्तिकरूपेण कोऽपि शत्रुः भवति स्म तथापि राज्यस्य हिताय सः उपयोगी भवति चेत् सः शत्रुः ग्राह्यः। एवमेव राज्ञः वैयक्तिकरूपेण बहु प्रियः अपि सन् यदि राज्यस्य अहितं कोऽपि चिन्तयति स्म तदा सः त्याज्यः भवेत्। यथा सर्पेण दष्टा शरीरस्य अँगुली अपि छिन्नं करणीयं भवेत्, कटुः अपि औषधिः आरोग्यार्थं ग्राह्यं भवेत् तथैव राज्ञः राज्यस्य हिताय द्वेष्यः अपि संमतः अभवत्, तथा प्रियः अपि त्याज्यः अभवत्। राष्ट्रहितमेव सर्वोपरि आसीत्।
द्वेष्योऽपि संमतः शिष्टस्तस्यार्तस्य यथौषधं ।
त्याज्यो दुष्टः प्रियोऽप्यासीदङ्गुलीवोरगक्षता ॥ १.२८ ॥
४. नृपाः प्रकृतेः संरक्षणं अकुर्वन् तथैव देवाः अपि पृथिव्याः जनानां संरक्षणे रताः अभवन्। नृपाः देवानां प्रीत्यर्थं यज्ञादीन् समाचरन्। देवाः अपि पृथिव्यां प्रभूतैः धान्यैः समृद्धम् अकुर्वन्। एवं सम्पत् विनिमयेन उभौ, राजानः देवाः च पृथिवीलोकं देवलोकं च सम्यक् अपालयन्। राजानः यज्ञादिकर्मणा देवान् अतुष्यन्, इन्द्रादयः देवाः च वृष्टिना पृथिवीं अपोषयन्।
दुदोह गां स यज्ञाय सस्याय मघवा दिवम् ।
संपद्विनिमयेनोभौ दधतुर्भुवनद्वयं ॥ १.२६ ॥
५. राजानः उन्नतपदवीं प्राप्य उद्धताः मदोन्मत्ताः न अभवन्। ते अधिपतयः ज्ञाने मौनं भजन्ते स्म। तेषां आचरणं श्लाघाविपर्ययम् आसीत्। बलशालिनः ते क्षमाशीलाः आसन्। ते दानशालिनः सन् अपि प्रशंसां श्लाघां वा नैव इच्छन्ति स्म। ते चाटुकारितां तिरस्कुर्वन्ति स्म।
ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः ।
गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव ॥ १.२२ ॥
अद्यतनसमये एतानि सनातन-संस्कृतेः अमूल्यानि तथ्यानि अस्माभिः राजनीत्यां अवश्यं स्वीकरणीयानि। दीनानां सेवाभावः वैयक्तिकसुखादीनां त्यागभावः एव शासकानां आदर्शाः पथप्रदर्शकाः मानदण्डाः भवेयुः।
Indian-culture reflected in Kalidasa’s poetry-2
भारतीय-संस्कृतेः एकम् वैशिष्ट्यम् वर्तते। अत्र जीवनस्य सर्वेषां पक्षाणां न केवलं स्वीकरणम् भवति अपि तु समानं महत्त्वं च विद्यते। अस्य विषयस्य प्रतिपादनं कालिदासेन रघुकलस्य राज्ञः चरितानां वर्णने मनोहारि-रूपेण कृतम् अस्ति।
धर्मः, अर्थः, कामः मोक्षः च एते चत्वारः पुरुषार्थाः। एते सर्वे मानवजीवनस्य अभिन्नानि अङ्गानि इति अपि वक्तुं शक्यते। बाल्यावस्थायां बुद्धेः ग्रहणशक्तिः तीक्ष्णतरा वर्तते इति, अस्मिन् वयसि प्राप्ताः संस्काराः आजीवनं लाभप्रदाः भवन्ति, सदैव मनुष्यस्य उपकारिणः सन्ति इत्यस्मात् कारणात् बाल्यात् आरभ्य पञ्चविंशतिवर्षपर्यन्तं विद्यार्जनं करणीयम् इति निर्दिष्टम्। सुखार्थी वा विद्यां त्यजेत् विद्यार्थी वा सुखं त्यजेत् इति उक्तिः प्रसिद्धा एव। अतः विद्यार्जनकाले ब्रह्मचर्यं पालयन्तः गुरुकुले गुरुः अपि सर्वान् शिष्यान् कठिनं परिश्रमम् अकारयत् तान् सर्वान् शिष्यान् समभावेन च भावयति स्म। सर्वे शिष्याः गुरोः आज्ञां पालयन्तः, अनुशासनेन परिश्रमेण च विद्यार्जनं अकुर्वन्। न कोऽपि धनाढ्यः सम्पन्नः इति विशेषरूपेण सत्क्रियते अथवा दरिद्रः विजातीयः इति विप्रकार्यते। अनेन समदर्शनभावः साक्षात् सर्वत्र बभूव। किमपि अस्य विषये पाठनीयः कल्पनीयः वा न स्यात्, वस्तुतः सर्वे अनेन भावेन व्यवह्रियन्ते स्म। एवं रघुवंशीयाः राजपुत्राः अपि समत्त्वस्य, सरलजीवनस्य कठिनश्रमस्य च व्यावहारिकं शिक्षणं प्राप्नुवन्। विद्या सर्वोपरि अस्ति, सर्वैः विद्वांसः पूजनीयाः इति एषः संस्कारः बाल्यात् एव साक्षात् दर्शनेन अजानन्। उपदेशेन वा वारं वारं कथनेन वा विद्यार्थिषु तथा प्रभावः न जायते यथा ज्येष्ठानां आचारेण व्यवहारेण, अनुष्ठानेन च तस्य साक्षात् अनुकरणं भवति इति तु सत्यम् एव।
एवमेव रघुवंशीयाः राजानः यौवने गार्हस्थ्यधर्मं स्वीकृत्य भोगविलासानि सुखानि च अन्वभवन्। सत्पथेन सत्कर्मणा धनम् आर्जयन्। स्वे स्वे कर्मणि रताः अर्थं कामं च पुरुषार्थौ अपालयन्।
वार्धके वानप्रस्थाश्रमं स्वीकुर्वन्ति स्म, आध्यात्मिकं विषयं प्रति अवधानं ददति स्म। अन्तिमे काले तु योगेन शरीरं त्यजन्ति स्म।
शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम् ।
वार्द्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ॥ १-८॥
कालिदासेन रघुकुले जाताः राजानः किमर्थं कथं च पुरुषार्थं पालयन्ति इति अपि सम्यक् विवृतम् अस्ति अस्मिन् श्लोके –
त्यागाय संभृतार्थानां सत्याय मितभाषिणाम् ।
यशसे विजिगीषूणां प्रजायै गृहमेधिनाम् ॥ १-७॥
एते राजानः अर्थं सम्पदः च सोत्साहं सङ्ग्रहीतवन्तः। किमर्थम् इत्युक्ते स्वार्थसिद्धयर्थं वा भोगविलासार्थं वा इति न। दानाय, परोपकाराय, प्रजाभ्यः आनुकूल्यार्थमेव रघुकुलवंशीयाः धनसञ्चयम् अकुर्वन्। सत्यं वदन्तः ते मितं च सारं च भाषन्ते स्म। युद्धः क्षत्रियाणां धर्मः। दिलीपः आदयः नृपाः यशसे अयुध्यन्त, जेतुकामाः च आसन्। कुलस्य वर्धनाय, संरक्षणाय च गार्हस्थ्यधर्मम् अपि अपालयन्।
एवं रघुकुलवंशीयानां चरितं वर्णयन् कविः कालिदासः भारतीय-संस्कृतेः केचन अंशान् सोदाहरणं विवृतवान्। चतुर्णां पुरुषार्थाणां कानि प्रयोजनानि, वर्णाश्रमाः के? ते कथं आचरेयुः इति प्रतिपादितवान् च।
कविः कालिदासः कविकुलगुरुः इति ख्यातिं प्राप्तवान्। भारतभूमिं प्रति तस्याः संस्कृतिं प्रति च तस्य महती श्रद्धा, प्रीतिः च तस्य काव्येषु लक्ष्यते। यथा तेन विरचिते रघुवंशे महाकाव्ये सूर्यवंशीयानां राज्ञां विषये कालिदासः व्यवृणोत्। राज्ञां गुणान् विवृत्य कविः भारतीय-संस्कृतेः विषये अपि अनेकान् विषयान् प्रतिपादितवान्।
राज्ञः दिलीपस्य गुणान् वर्णयन् कालिदासः वदति –
“अनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः,
तस्य धर्मरतेरासीत् वृद्धत्वं जरसा विना।।”
वृद्धत्वं इति शब्देन प्रायः अस्मान् वयोवृद्धत्वस्य एव बोधः भवति। रघुवंशीयाः दिलीपसदृशाः आयुषा वृद्धाः न। किन्तु ते शीलवृद्धाः, ज्ञानवृद्धाः, वैराग्यवृद्धाः च।
वार्धक्यं सम्मानम् अपेक्ष्यते। वयोवृद्धाः सम्माननीयाः! जनाः तेषां आशीः सदैव आप्नुयुः। वार्धक्यं चतुर्विधम् अस्ति। शास्त्रेषु अस्य किञ्चित् विवरणम् एवं दृश्यते। वयोवृद्धत्वं, शीलवृद्धत्वं,ज्ञानवृद्धत्वं वैराग्यवृद्धत्वञ्चेति। एतदपि सूचितं तत्र यत् एषु चतुर्षु उत्तरोत्तरं अधिकं श्रेष्ठतरं वृद्धत्वं किमिति। वयोवृद्धत्वात् शीलवृद्धत्वं, शीलवृद्धत्वात् ज्ञानवृद्धत्वं, ज्ञानवृद्धत्वात् वैराग्यवृद्धत्वं श्रेष्ठतरम् इति।
मनुस्मृतिः इत्यस्मिन् ग्रन्थे मनुः ऋषिः अपि उक्तवान् –
“न तेन वृद्धो भवति येनास्य पलितं शिरः।
युवाप्यधीयानस्तं देवाः स्थविरं विदुः।।” २/१५६ मनुस्मृतिः
रघुकुले उत्पन्नः दिलीपराजस्य वयो-वार्धक्यं तु वृद्धत्वं विना आसीत्। सः सदैव धर्मरतः आसीत्। सः, तस्य अनुयायिन्यः प्रजाः च रेखामात्रमपि मनुना प्रणीतेन मार्गेण विचलिताः न भवन्ति स्म। अतः दिलीपः शीलवृद्धः। सर्वासु विद्यासु पारङ्गतः सः ज्ञानवृद्धः। विषयवस्तूनां प्रति सः न कदापि आकृष्टः अभवत् इतयस्मात् कारणात् तस्य वैराग्यवृद्धत्वम् अपि सिद्धम्। एवं दिलीपः राजा शीलात्, ज्ञानात्, वैराग्यात् च प्रौढताम् प्राप्नोत्। वयोवृद्धः न सन्नपि तस्य वार्धक्यम् आसीत्।
अहो वाग्मिता कालिदासस्य! भारतस्य संस्कृतिं प्रति कियती श्रद्धा, कियान् गौरवः, भारतीयसंस्कृतेः कियत् ज्ञानं च।
Siddhartha’s child Rahul listens and responds to a touching tale!
अयि अम्ब! कथय कथामेकाम्! ( हिन्दीभाषायाः राष्ट्रकविः- श्रीमैथिलीशरणगुप्तः)
अयि अम्ब! कथय कथामेकाम्!
वत्स! अपि मन्यसे मातामह्यस्मि तवाहम्?
एषा चेटी किल वदति, त्वमसि मम मातामह्याः पुत्री!
वद अम्ब! शयाना एव! राजा आसीत् वा राज्ञी?
अयि अम्ब! कथय कथामेकाम्!
धृष्टोऽसि खलु त्वं मानधनः मम! शृणु! कदाचित् उपवने उषःकाले,
पिता तव अटन्नासीत्, यत्र प्रावहन् सुरभिवाताः!
यत्र प्रावहन् सुरभिवाताः ! आम् मातः! एषा एव खलु कथा!
प्रफुल्लितानि पुष्पाणि विविधान्यासन्, हिमबिन्दवः तेषु प्रसरिताः
मन्दं मन्दं पवनः वहन्नासीत्, निर्झरिणी च समीपे झर्झति स्म!
निर्झरिणी झर्झति स्म! आम् आम्, एषा ननु कथा!
खगाः मधुरं कूजन्ति स्म सहसा एकः हंसः उपरिष्टात्
अपतत् शरेण विद्धः, पक्षः हतः तस्य हन्त!
पक्षः हतः तस्य? अहो! करुणामयी कथा!
विस्मितेन तेन हंसः गृहीतः, नवं जन्म प्राप्तं हंसेन
तदैव सहसा आखेटकः प्राप्तः, लक्ष्यं साधितवानिति गर्वितः!
लक्ष्यं साधितवानिति गर्वितः? मृद्वी कठिना च कथा!
देहि मे विद्धं हंसं, इति व्याधेन अभियुक्तः, पिता तु तव आसीत् रक्षकः
तदा सः यः आसीत् खगभक्षकः, बलात् ग्रहीतुमुद्युक्तः!
बलात् ग्रहीतुमुद्युक्तः! अधुना प्रवृद्धा इयं कथा!
विवादः सञ्जातः उभयोः सदयनिर्दययोः मध्ये,
उभावपि स्वस्थितिं प्रति बलादाग्रहं कृतवन्तौ
नीता वार्ता न्यायालयं प्रति, सर्वेषाञ्च श्रुतिपथं प्राप्ता!
राहुल! त्वं कुरु निर्णयनमस्य
न्यायः कस्य पक्षे भवेदिति?
भीतिं विना वद, जयः कस्येति तव मुखात् श्रोतुकामास्मि!
अयि मातः! अहं किं वदानि? अहं तु शृण्वन्नस्मि कथाम्!
यदि कोऽपि निरपराधिनं हन्ति, तर्हि किमर्थं अन्यः न तं रक्षेत्?
रक्षकः भक्षकं न्यवारयेत् हि! न्यायः नु स्यात् दयान्वितः!
न्यायः नु स्यात् दयान्वितः! त्वया नूनम् अवगता कथा!
The Hindi original version by राष्ट्रकवि श्री मैथिलीशरणगुप्तजी
“माँ कह एक कहानी।”
(मैथिलीशरणगुप्त द्वारा रचित)
माँ कह एक कहानी!
बेटा समझ लिया क्या तूने मुझको अपनी नानी?”
“कहती है मुझसे यह चेटी, तू मेरी नानी की बेटी
कह माँ कह लेटी ही लेटी, राजा था या रानी?
माँ कह एक कहानी।
“तू है हठी, मानधन मेरे, सुन उपवन में बड़े सवेरे,
तात भ्रमण करते थे तेरे, जहाँ सुरभि मनमानी।”
“जहाँ सुरभि मनमानी! हाँ माँ यही कहानी।”
वर्ण वर्ण के फूल खिले थे, झलमल कर हिमबिंदु झिले थे,
हलके झोंके हिले मिले थे, लहराता था पानी।”
“लहराता था पानी, हाँ-हाँ यही कहानी।”
“गाते थे खग कल-कल स्वर से, सहसा एक हंस ऊपर से,
गिरा बिद्ध होकर खग शर से, हुई पक्ष की हानी।”
“हुई पक्ष की हानी? करुणा भरी कहानी!”
चौंक उन्होंने उसे उठाया, नया जन्म सा उसने पाया,
इतने में आखेटक आया, लक्ष सिद्धि का मानी।”
“लक्ष सिद्धि का मानी! कोमल कठिन कहानी।”
“मांगा उसने आहत पक्षी, तेरे तात किन्तु थे रक्षी,
तब उसने जो था खगभक्षी, हठ करने की ठानी।”
“हठ करने की ठानी! अब बढ़ चली कहानी।”
हुआ विवाद सदय निर्दय में, उभय आग्रही थे स्वविषय में,
गयी बात तब न्यायालय में, सुनी सभी ने जानी।”
“सुनी सभी ने जानी! व्यापक हुई कहानी।”
राहुल तू निर्णय कर इसका, न्याय पक्ष लेता है किसका?
कह दे निर्भय जय हो जिसका, सुन लूँ तेरी बानी”
“माँ मेरी क्या बानी? मैं सुन रहा कहानी।
कोई निरपराध को मारे तो क्यों अन्य उसे न उबारे?
रक्षक पर भक्षक को वारे, न्याय दया का दानी।”
“न्याय दया का दानी! तूने गुनी कहानी।”
पराजयस्य जयः — सुदर्शनः
(मूलकथा- हार की जीत, लेखक — सुदर्शन)
यथा माता स्वस्य तनयं दृष्ट्वा, कृषकः तस्य सस्य-सम्पन्नं क्षेत्रं वीक्ष्य च मोदते तथैव बाबाभारती तस्य अश्वं पश्यन् महान्तम् आनन्दम् अन्वभवत्। यः कश्चन अपि कालः भगवतः ध्यानात् परं प्राप्यत, सः कालः अश्वस्य पोषणे लालने च सुखेन आयाप्यत। सः अश्वः अत्यन्तं दर्शनीयः बलिष्ठ़ः च। सम्पूर्णे तस्मिन् प्रान्ते तेन सदृशः अन्यः अश्वः नैव आसीत्। बाबाभारती तम् अश्वं ‘महाराज’ इति नाम्ना निर्दिशति स्म। स्वहस्तेन खाद्यं तृणादिकं चणकान् च अखादयत्। एवं कुर्वन् सः अतीव आनन्दं च अन्वभूत्। सः धनं, सम्पत्, अमूल्यानि अपराणि वस्तूनि, क्षेत्राणि च सर्वं त्यक्तवान्। भौतिकवस्तूनि नगरवासं च प्रति वितृष्णाभावः आसीत् तस्य। अतः सः ग्रामं विहाय, नगरात् बहिः एकस्मिन् लघौ देवालये वासम् अपि अकरोत्। देवम् अहर्निशं स्मृत्वा कालं यापयतः अपि ‘महाराजः इत्येतम् अश्वं विना जीवितुं न शक्नोमि’ इति मनसि भ्रमः आसीत् तस्य। चारुगामिनं तं वीक्ष्य निरूप्य च सः महान्तम् आनन्दम् प्राप्नोत्। सः अश्वस्य विषये सर्वान् सगर्वम् एवम् अवदत् “यथा मेघं दृष्ट्वा मयूरः मत्तः भूत्वा नृत्यति तथैव महाराजाश्वस्य चलनं वर्तते” इति! यदि बाबाभारती प्रत्यहं सायङ्काले दशमितं क्रोशम् अश्वारोहणं न कुर्यात् तर्हि तस्य मनः न तुष्येत्।
खड्गसिंहः नामा ख्यातः कश्चन चोरः अपि तस्मिन् एव प्रान्ते न्यवसत्। तस्य नाम्नः श्रवणमात्रेण एव सर्वे ग्रामवासिनः भीतभीताः अभवन्। गच्छता कालेन ‘महाराज’स्य वैभवं तस्यापि श्रुतिपथम् आपतितम्। सोऽपि तं विलक्षणं अश्वं द्रष्टुम् आतुरः अभूत्। कस्मिंश्चित् दिवसे मध्याह्नकाले सः बाबाभारतेः गृहं प्राप्तवान्। तं नमस्कृत्य तस्य पार्श्वे एव उपाविशच्च।
बाबाभारती तं कुशलं पृष्टवान् — “अये खड्गसिंह! का वार्ता?”
सोऽपि शिरः अवनमय्य प्रत्युत्तरं दत्तवान्- “भवतः प्रसादेन सर्वं कुशलमेव” इति।
बाबाभारती- कथं केन कारणेन वा इतः आगमनं भवतः?
खड्गसिंहः- महाराजस्य दर्शनेच्छया आकृष्टः अत्र प्राप्तः अस्मि।
बाबाभारती- विलक्षणः अद्भुतः च सः जीवः! दृष्ट्वा भवान् अतीव मोदिष्यते।
खड्गसिंहः- आम्! अहमपि बहूनां मुखात् श्रुतवान् अस्य अश्वस्य विषये!
बाबाभारती- एतस्य गमनस्य निरीक्षणात् भवतः मनः पुलकितं भविष्यति!
खड्गसिंहः- सः अतीव सुदर्शनः इति अपि श्रूयते।
बाबाभारती- अहो! किं वदानि! एकवारं यः तं पश्यति तस्य मनसि तस्य छविः शाश्वतरूपेण अङ्किता भवति।
खड्गसिंहः — आ बहोः कालात् तस्य दर्शने मम अभिलाषः आसीत्। अत एव मया अद्य उपस्थितम् अत्र।
बाबाभारती तम् अश्वालयं नीतवान्। बाबा सगर्वम् अश्वं दर्शितवान्। खड्गसिंहः अपि महता विस्मयेन अश्वं दृष्टवान्! सः तस्य सम्पूर्णे जीवनकाले अनेकान् अश्वान् दृष्टवान् किन्तु एतादृशः अश्वः तु तस्य दृष्टिपथं नैव आगतः! सः चिन्तितवान् ‘विधेः विधानम् एतत्। एतादृशः अश्वः तु मादृशस्य जनस्य सकाशे भवितुमर्हति। अस्य संन्यासिनः अस्मात् अश्वात् किं वा प्रयोजनम् स्यात्? अनेन अश्वेन को वा लाभः अस्य? कञ्चित् कालं सः तत्रैव तूष्णीम् अतिष्ठत्। पश्चात् तस्य मनः चञ्चलं व्याकुलञ्च अभूत्। बालसुलभतया अधीरः सन् सः सहसा अवदत् — “किन्तु बाबाभारतीवर्य़! एतस्य वेगः यदि न दृष्टः तर्हि किं वा दृष्टं भवेत्?”
भारती अपि अपरस्य मुखात् तस्य अश्वस्य श्लाघां श्रोतुकामः आतुरहृदयः जातः। अश्वं विमोच्य सः बहिः आनीतवान्। अश्वः वायुवेगेन अधावत्। तं दृष्टवतः खड्गसिंहस्य हृदये असूया उत्पन्ना। सः तु चोरः। ‘यत् किमपि अहम् इच्छामि तस्मिन् मम अधिकारः’ इति सः चिन्तयति, मन्यते वा। सः बलवान् आसीत्। अनेके जनाः तस्य साहाय्यं कर्तुम् अपि सिद्धाः आसन्। सः उक्तवान् — “बाबावर्य! अयम् अश्वः भवतः सान्निध्ये न भविष्यति!” इति।
बाबाभारती भयेन आकुलः जातः। इदानीं सः निद्रां न प्राप्नोति स्म। अहर्निशं अश्वशालायाः निरीक्षणं कुर्वन् एव कालं यापितवान्। सः प्रतिक्षणं खड्गसिंहात् भयेन आकुलः आसीत्। अनेके मासाः अतीताः। सः खड्गसिंहः नैव आगतः। बाबाभारती अपि दुःस्वप्नमिव तां वार्तां व्यस्मरत्।
सन्ध्याकालः आसीत्। बाबाभारती महाराजस्य पृष्ठे उपविश्य स्वैरं विहर्तुम् अगच्छत्। तस्य नेत्रयोः मुखमण्डले च महान् सन्तोषः आसीत्। यदा कदा अश्वं दर्शं दर्शं सः मुदितः अभवत्। सहसा सः एकम् उच्चैः क्रन्दनध्वनिम् अशृणोत्। — “भोः! भवान् अस्य दीनस्य वार्तामपि किञ्चित् शृणोतु!”
सः रवः करुणापूर्णः आसीत्। बाबाभारतीवर्यः अश्वं निगृहीतवान्। सः अपश्यत् यत् एकः रोगपीडितः जनः वृक्षस्य छायायां क्रन्दन् आसीत्। भारती तमपृच्छत् — “किं कष्टमनुभवसि त्वम्” इति। सः रोगी अपि दीनभावनया नत्वा न्यवेदयत्- “भोः अहं तु दीनः। मयि दयां कुरु! रामावाला इति ग्रामम् इतः त्रिकिलोमीटरमिते दूरे अस्ति। मया तत्र गन्तव्यम्। अश्वपृष्ठे मां निक्षिप्य तत्र मां प्रापय! देवकृपा भवेत् त्वयि।“
“तस्मिन् ग्रामे कः अस्ति तव बन्धुः?” इति पृष्टे, सः दीनः अवदत्- “दुर्गादत्तस्य नाम भवान् अपि श्रुतवान् किल? अहं तस्य भ्राता अस्मि।“
बाबाभारती अश्वात् अवरुह्य तं दीनम् अश्वस्य पृष्ठे अस्थापयत्। तथा अश्वस्य रश्मिं हस्तेन गृहीत्वा मन्दं मन्दम् चलितुम् आरब्धवान्। तावता तस्य हस्तात् सहसा अश्वस्य रश्मिः भ्रष्टा। तस्य आश्चर्यस्य च सीमा एव नासीत्। यदा सः तं दीनम् अपश्यत् सः तु अश्वस्य पृष्ठे दृढम् उपविश्य अश्वं धावन्तं वेगेन चालयति स्म। भारतेः मुखात् विस्मयेन निराशतया च आक्रन्दनं निर्गतम्। सः दीनः तु वस्तुतः छद्मवेशी खड्गसिंहः एव आसीत्। कञ्चित् कालं मौनं भजन् भारती उच्चस्वरेण तम् आहूतवान् — “तिष्ठ रे!”
खड़गसिंहः ध्वनिं श्रुत्वा अश्वं निरुध्य अश्वस्य केशं सस्नेहं लालयन् अवदत् — “इदानीं भवते अश्वं तु न दास्यामि।“
बाबा- अस्तु नाम। परन्तु मम एकं वचनं श्रुणु, ततःपरं गच्छ!
खड़गसिंहः पुरतः अतिष्ठत्।
बाबाभारती तस्य समीपम् आगत्य यथा कोऽपि मृगः व्याधं पश्येत् तथा करुणया तं चोरम् पश्यन् अवदत् — “एषः अश्वः इदानीं तव एव। अहम् अश्वं प्रतिदातुं न प्रार्थये। किन्तु मम एका एव प्रार्थना अस्ति। तां प्रार्थनां मा निराकुरु। यदि मम प्रार्थनां न स्वीकरोषि तदा मम हृदयं अतीव दुःखितं भवेत्। वेदना मां बाधेत।“
खड्गसिंहः- “बाबार्य, आज्ञापयतु भवान्। अहं भवतः दासः अस्मि। केवलम् अश्वं पुनः न दास्यामि, तावदेव!”
बाबाभारती- “इतःपरं अश्वस्य वार्ता एव मास्तु! अहं अस्य विषये तूष्णीमेव भवामि। मम एका एव प्रार्थना अस्ति। एतां घटनां केषामपि सम्मुखे मा प्रकटय इति।“
खड्गसिंह तु अतीव आश्चर्यान्वितः मूकः च अतिष्ठत्! तेन तु चिन्तितम् आसीत् ‘इदानीम् अश्वेन सह कुतोऽपि दूरं पलायितव्यमिति, किन्तु एषः बाबाभारती तु स्वयमेव एतं विषयं कमपि मा सूचय इति वदति खलु? अनेन अस्य कृते किं प्रयोजनं स्यात्? को वा लाभः?’
खडगसिंहः बहुकालं यावत् अचिन्तयत्। मेधामथनं कृतवान्। किन्तु कारणं न ज्ञातवान्! सः भारतीं सम्यक् दृष्ट्वा अपृच्छत् — “बाबाभारतिवर्य! भवान् किमर्थं भीतः अस्ति? भवतः न कोऽपि दोषः अत्र?”
एतत् श्रुत्वा बाबाभारती उत्तरितवान् — “यदि जनाः एतां वार्तां जानीयुः तर्हि न कोऽपि दीनानां वचनेषु विश्वासं कुर्यात्” इति! एवं वदन् सः झटिति पराङ्मुखः भूत्वा न्यवर्तत यथा अश्वेन तस्य कदापि कोऽपि सम्बन्धः एव नास्ति इति भावनाम् आत्मनि वहन्।
बाबाभारती ततः अगच्छत्। किन्तु तस्य एतानि वचनानि तु खड्गसिंहस्य कर्णाभ्यां गुञ्जन्ति स्म! कियान् उदात्तः विचारः! कियती पूता च भावना। अश्वे तस्य महती प्रीतिः आसीत्। तं दृष्ट्वा पु्ष्पमिव तस्य मुखं विकसति स्म! सः एवम् अवदत् — अनेन अश्वेन विना अहं जीवितुं न शक्नोमि इति। सः जागरूकतया अश्वस्य रक्षणे निद्रां विना कति रात्रीः यापितवान्! देवस्मरणं पूजां च विहाय सः अश्वस्य रक्षणमेव कृतवान्। किन्तु अद्य तस्य मुखे दुःखस्य लेशः अपि न आसीत्। दीनानां विषये एव आसीत् तस्य चिन्तनम्। हन्त! दीनेषु न केऽपि औदासीन्यं भजेत् इत्येव आसीत् तस्य महती चिन्ता! एतादृशः जनः मनुजः न, साक्षात् देवः एव!
रात्र्याः घनान्धकारे खड़गसिंहः बाबा भारतेः मन्दिरं प्राप्नोत्। सर्वत्र नीरवता आसीत्। आकाशे नक्षत्राणि द्योतन्ते स्म। दूरे केचन कुक्कुराः भषन्ति स्म। गृहे न कोऽपि रवः श्रूयते स्म। खड्गसिंहः अश्वं रज्ज्वा गृहीतवान् आसीत्। सः मन्दं मन्दं अग्रे सरन् अश्वालयस्य मुख्यद्वारं प्राप्नोत्। द्वारं तु पिहितं न आसीत्। किञ्चित्कालात् प्राक् तु बाबाभारती स्वयमेव दण्डहस्तः सन् अश्वालयस्य संरक्षणं कुर्वन् जागरूकः भवति स्म। किन्तु अधुना चोरात् न कापि भीतिः तस्य। खड्गसिंहः अश्वं यथास्थाने बद्धवा सावधानतया द्वारं पिहितवान्। अद्य तस्य नेत्राभ्यां सदश्रूणि प्रावहन्।
रात्रेः तृतीयः यामः आसीत्। चतुर्थे यामे तु बाबाभारती कुटीरात् बहिः आगत्य शीतलेन जलेन अस्नात्। पश्चात् सः स्वप्नवत् अश्वशालां प्रति उन्मुखः अभवत्। किन्तु यावत् अश्वशालायाः द्वारं प्राप्तं तावता तस्य बोधः अभूत्। तथा च निराशतया दुःखितः सन् कञ्चनकालं द्वारि अतिष्ठत्। स्वामिनः पदचापं श्रुत्वा अश्वः उच्चैः हेषारवम् अकरोत्।
बाबाभारती विस्मयेन आनन्देन च अश्वालयं प्राविशत्। तत्र आसीत् तदीयः प्रियः अश्वः। तम् आलिङ्ग्य सः तथा अश्रूणि अमुञ्चत् यथा कोऽपि पुत्रस्य सुदीर्घेण वियोगेन सन्तप्तः सन् सुतं प्राप्य मोदेत! वारं वारं अश्वस्य पृष्ठं हस्तेन संवाह्य तस्य मुखं स्नेहेन अस्पृशत्। सन्तुष्टः सन् सः अवदत् — “इदानीं न कोऽपि दीनानां साहाय्यात् पराङ्मुखः भविष्यति” इति!
कञ्चन कालं यदा यदा सः अश्वशालातः बहिः निरगच्छत् तदा तस्य नेत्रे अपि अश्रुपूर्णे आस्ताम्। तानि अश्रूणि अपि तस्मिन्नेव स्थले अपतन् यत्र खड्गसिंहः अश्वशालायाः बहिः स्थित्वा अश्रूणि अमुञ्चत्। उभयोः अश्रूणां परस्परं भूमौ मेलनम् अभवत्!
समस्यापूर्त्तिः
The great king Bhoja who ruled in Dhara nagari. He encouraged literary wisdom and often liked to throw some challenges to tingle the creative gray matter.
धारनगरीं शासतः भोजराजस्य विषये बह्व्यः कथाः श्रूयन्ते। सः प्रजासु बहु स्निह्यति स्म। तस्य राज्ये सर्वे सभासदः विद्वांसः आसन्। तेभ्यः विद्वद्भ्यः भोजराजः यदा कदा काञ्चन समस्यां समस्यापूर्त्तये ददाति स्म।
एकदा सः ‘इयं अस्य श्लोकस्य अन्तिमा पङ्क्तिः अस्ति । श्वः प्रातः अयं श्लोकः सम्पूर्णः करणीयः, सभायां भवद्भिः विद्वद्भिः प्रस्तौतव्यः च’ इति आदिष्टवान्।
सा पङ्क्तिः एवमासीत् -
“अम्भोधिर्जलधिःपयोधिरुदधिर्वारान्निधिर्वारिधिः।” इति।
केवलं समुद्रस्य षट्-विशेषणपदानि आसन् अस्यां पङ्क्तौ। अनेके काव्यरचनायां प्रावीण्यं भजन्तः पटवः कवयः, भाषासु निष्णाताः विद्वांसः च अपि इमं श्लोकं पूरयितुं असमर्थाः किङ्कर्तव्यविमूढाः अतिष्ठन्।
प्रातःकाले भोजस्य सभा सज्जिता। अनेके जनाः कुतूहलेन पश्यन्ति स्म। भोजराजः सभां प्रविष्टः। सः सभायाः सिंहावलोकनं कृतवान्। सर्वे सभासदः अधोमुखाः तूष्णीं स्थितवन्तः। ‘अयि भोः! कोऽपि श्लोकं न पूरितवान्?’ इति सः खेदं प्राकटयत्। तदा कविः कालिदासः उत्थाय उक्तवान्- देव! निवेदयामि। भवान् कृपया शृणोतु!
अम्बा कुप्यति तात मूर्ध्नि विधृता गङ्गेयमुत्सृज्यतां
विद्वन्षण्मुख का गतिर्मम चिरं मूर्ध्नि स्थिताया वद।
कोपावेशवशादशेषवदनैः प्रत्युत्तरं दत्तवान्
अम्भोधिर्जलधिः पयोधिरुदधिर्वारान्निधिर्वारिधिः॥
कवेः कल्पना एवम् आसीत् । शिवस्य पुत्रः षण्मुखः एकदा पितरम् उक्तवान्- पितः! शिरसि भवता या गङ्गा धार्यते तया माता पार्वती बहु रुष्टा अस्ति। अतः इमाम् गङ्गां भवान् अनुक्षणं त्यजतु, इति।
तदा शिवः प्रत्युत्तरं दत्तवान्। वत्स! एषा तु सुदीर्घकालात् मम शिरसि स्थिता अस्ति। कथम् एतां त्यक्तुं शक्नोमि? कुत्र त्यजामि, क्षिपामि वा? अस्याः का गतिः भवेत् ? इति।
तदा एकैकस्मात् मुखात् सरोषं षण्मुखः उत्तरम् अददात्-
अम्भोधिः! जलधिः!! पयोधिः!!!
उदधिः!!!! वारान्निधिः!!!!! वारिधिः!!!!!!
अहो! वाग्वैभवं कालिदासस्य!
केचन अन्ये श्लोकाः/ समस्याः -
यस्य षष्ठी चतुर्थी च विहस्य विहाय च।
यस्याहं च द्वितीया च, द्वितीया स्यामहं कथम्।।
तमाखुपत्रं राजेन्द्र भज माज्ञानदायकम्।
तमाखुपत्रं राजेन्द्र भज माज्ञानदायकम्।।
तातेन कथितं पुत्र पत्रं लिख मम आज्ञया।
न तेन लिखितं पत्रं, पितुः आज्ञा न लङ्घिता।।
कालिदासः प्रख्यातः कविः, कविकुलगुरुः इति उच्यते। तस्य विषये काचन कथा प्रचलिता अस्ति। आसीत् विद्योत्तमा नाम्नी काचन राजकुमारी। सा न केवलं अद्वितीया सुन्दरी अपितु अतीव बुद्धिमती अपि आसीत्। यादृशं नाम तादृशाः गुणाः!
गच्छता कालेन सा विवाहयोग्या सञ्जाता। तदा सा पितरं राजानम् एवम् उक्तवती - 'यः कोऽपि मां शास्रार्थे पराजयेत् तम् एव अहं परिणेतुम् इच्छामि’ इति। राजा अपि पुत्र्याः निवेदनं सहर्षम् अङ्गीकृतवान्। तेन सर्वत्र घोषणा कारिता। यः कोऽपि राजकुमारीं विद्योत्तमां शास्रार्थे पराजयेत् तं सा पतिरूपेण वृणुयात् इति। ततश्च यः कोऽपि शास्त्रार्थे विद्योत्तमया पराजितः भवेत् सः आजीवनं कयाऽपि सह विवाहं न कुर्यात् इति समयः अपि कल्पितः तया राजकुमार्या! अनेके विद्वांसः समागताः, शास्रार्थे पराजिताः,असन्तुष्टाः भूत्वा, प्रति निवृत्ताः च।
हतोत्साहिनः केचन विद्वांसः राजकुमार्याः अहंकारं शमयितुं तां च दण्डयितुम् एकम् उपायं चिन्तितवन्तः। ‘केनापि महामूर्खेण सह राजकुमार्याः विवाहं आयोजयिष्यामः’ इति दृढेण आशयेन ते विद्वांसः,मूर्खस्य अन्वेषणम् आरभन्त। तदा एव दैववशात् तेषां दृष्टिः वृक्षे उपविष्टं कालिदासं प्रति न्यपतत्। हन्त! सः तु वृक्षस्य यस्यां शाखायाम् उपाविशत् तां शाखाम् एव कर्तयन् अस्ति! तेषां विदुषाम् मूर्खस्य अन्वेषणं तु लब्धम् एव। ते विद्वांसः कालिदासं कथमपि समाश्वास्य, वञ्चनया तस्य कालिदासस्य विवाहं विद्योत्तमया सह कारितवन्तः।
कालिदासः न महान् पण्डितः, किन्तु महामूढः इति विज्ञाय सा विद्योत्तमा कालिदासं तिरस्कृत्य प्रासादात् निष्कासितवती। दुःखार्त्तः कालिदासः काल्याः देव्याः चरणयोः पतित्वा, भक्त्या देव्याः कृपादृष्टिं प्रार्थयत। करुणामयी देवी कालिदासस्य सम्मुखे साक्षात् प्रकटीभूता। सा कालिदासस्य जिह्वायां ‘ओम्’ इति बीजाक्षरं लिखितवती। कालिदासाय आशिषं प्रदत्तवती। देव्याः कृपयाकालिदासस्य मूर्खत्वं झटिति विनष्टम् अभूत्। सः विद्वान् सञ्जातः।
विद्वत्त्वं कवित्वकौशलं च प्राप्य सः स्वभार्यायाः विद्योत्तमायाः सकाशं गतवान्। कालिदासं दृष्ट्वा सा साकूतं तं पृष्टवती- “अस्ति कश्चित् वाक् विशेषः?” इति।
तया उक्तस्य वाक्यस्य एकैकं शब्दं स्वीकृत्य तेन शब्देन आरभ्य काव्यं, महाकाव्यं च विरचितवान् कविकुलगुरुः कालिदासः!
अस्ति इत्यनेन अस्ति_उत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः — — (कुमारसम्भवम्)
कश्चित् इत्यनेन कश्चित्कान्ता विरहगुरुणा स्वाधिकारात् प्रमत्तः — — (मेघदूतम्)
वाक् इत्यनेन वाक्_अर्थाविव सम्पृक्तौ (रघुवंशम्)
इति काव्यत्रयं कालिदासः विरचितवान्।
Failures indeed are stepping stones to great success
This story of my father is worth emulating! A gold medalist in Mathematics, graduate in those early nineties, and a graduate in those early nineties, what more can a father aspire from his brilliant son! Soon the son will take on his responsibility… so dreamt his elated father!
बृहद्-कुटुम्बे जातः ज्येष्ठः पुत्रः कदा कुटुम्बस्य भारं निर्वहेत् इति उत्कटेच्छा अनेकेषु पालकेषु दृश्यते। अतः यदा मम पिता गणित-विषये स्नातक-परीक्षाम् उत्तीर्य विश्वविद्यालये प्रथमस्थानं स्वर्णपदकं च प्राप्तवान्, तदा तस्य पितुः आनन्दस्य सीमा एव नासीत्। पुत्रः सर्वकारीयां वृत्तिं प्राप्स्यति, सम्यक् वेतनं लप्स्यते, कुटुम्बस्य भारं निर्वक्ष्यति इति चिन्तामुक्तः आसीत् मम पितामहः विश्वनाथवर्यः।
An interesting turn of events. My father chose the path less travelled!
किन्तु विधेः गतिं को वा जानाति? विधिना तु किञ्चित़् भिन्नम् एव विहितम् आसीत् मम पितुः कर्मभूमेः विषये! तदानीन्तनकाले स्नातक-स्तरे भाषा-पठनम् अपि अनिवार्यम् आसीत्। यां काम् अपि भाषां विद्यार्थिनः पठनार्थम् अचिन्वन्, तस्यां भाषायां मूलभूता सामान्या योग्यता अपेक्षिता आसीत्।मम पिता संस्कृतभाषां पठनार्थम् अचिनोत् किन्तु संस्कृत-परीक्षायाम् अतिन्यूनान् अङ्कान् प्राप्तवान्। कृपा-दान-रूपेण कांश्चन अङ्कान् योजयित्वा (grace marks) कथमपि तदानीन्तनकालस्य नियमानुसारेण सः उत्तीर्णः इति घोषितः अभवत्।
My father shifted from mathematics to a relatively new subject — Sanskrit! The rough but interesting journey began with many challenges!
अस्याः घटनायाः प्रभावः इत्थम् आसीत् यत् विफलत्वात् प्रेरितः, आक्षिप्तः सः स्वजीवनस्य पन्थानं लक्ष्यमपि च परिवृत्तवान्। ‘संस्कृतेन एव जीवनम्’ इति दृढं संकल्पं कृतवान्। पित्रा प्रताडितः, गृहात् निष्कासितः सन् सः संस्कृत-कला-शालायां शुल्कं विना संस्कृतम् अधीत्य, अनेकानि कष्टानि च सोढ्वा वेदान्त-शिरोमणिः इति उपाधिं च प्राप्तवान्। गच्छता कालेन चेन्नईनगरे सः विवेकानन्द-महाविद्यालये प्राध्यापकपदं प्राप्य स्वकुटुम्बस्य भारं दायित्त्वम् अपि सम्यक् निर्वूढवान्।
He chose the field of his interest, and with dedication and toil made a mark! Lady luck smiles on those who deserve her grace!
तमिळनाडु-प्रदेशे तदानीन्तनकाले द्राविड-आन्दोलनं प्रबलतया प्रचलत् आसीत्। द्राविडानुयायिनः संस्कृतभाषां प्रति महतीम् अश्रद्धां प्राकटयन्। अतः उत्तरभारत-गमनम् एव वरम् इति सः निश्चिनोत्, उज्जयिन्यां वृत्तिं लब्ध्वा तां पुरातनीं प्रसिद्धां नगरीं प्राप्तवान्। सर्वकारीये महाविद्यालये प्राध्यापकत्वेन स्वस्य जीवनं पुनः आरब्धवान्। तत्रत्यैः जनैः सह व्यवहर्तुं प्रादेशिकीं हिन्दीभाषाम् अपि अधीतवान्। “कोऽयं भस्म विलेपयन् ‘मद्रासी’ अस्माकं समुदाये आगतः” इति भावनया तिरस्कृतः, उपेक्षितः अभूत्। यावत् कानिचन वर्षाणि अतीतानि, तावत् तु ‘अजातशत्रुः’ इति समाजे प्रतिष्ठाम् अपि प्राप्तवान्। शिप्रा-नद्याः तीरे, महाकालेश्वरस्य सान्निध्ये कालिदासस्य प्रियायाम् उज्जयिन्यां सः सुदीर्घं कालं यावत् सन्तोषेण जीवनम् अयापयत्।
I took the one less traveled by,
And that has made all the difference. Robert Frost
“मनोरथस्य द्वे चक्रे दैवं पौरुषम् च” इति उक्तिं सार्थिकां कुर्वन् सः अचिरात् एव उत्तरोत्तरं प्रगतेः पथि अग्रेसरः अभूत्। संस्कृतभाषायाः सेवार्थं भारत-सर्वकारः ‘पद्मश्री’ इति उपाधिना तं सम्मानितवान्। सेवानिवृत्तः सन् पुनः काश्यां सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य कुलपतिरूपेण अपि द्विवारं कार्यभारम् निर्वूढवान् श्री वि वेङ्कटाचल-महाभागः। सुख-दुःखयोः अविचलमानः ‘सन्तोषः परमः धर्मः’ इत्यस्याः उक्तेः विग्रहवान् निदर्शनः आसीत् मम पिता! सः अद्यापि अशरीरी-रूपेण अस्माभिः सह वर्तते, अस्मान् सततं प्रेरयति एव!
I just humm, weave and move on!
Renowned king Bhoja and his never-ending thirst and quest for knowledge!
King Bhoja’s capital city was Dhara-nagari and his kingdom not only was prosperous but also thrived in various knowledge streams true to the saying ‘यथा राजा तथा प्रजाः!’
On disguise, he checks out an ordinary wood cutter. And lo, A grammar lesson awaits for the king!
भोजराजः धारानगरीं शशास। विद्यावान् सः स्वप्रजाः बहु प्रीणाति स्म। तस्य राज्ये सर्वे जनाः सुशिक्षिताः आसन्। स्वस्य प्रजानाम् अवस्थां ज्ञातुं सः प्रायशः छद्मवेषं धृत्वा सामान्यजनस्य रूपेण प्रजानां मध्ये संलपति स्म। एकदा सः एवं भ्रमन् आसीत्। तदा सः कञ्चन वृद्धं कुठारिकम् अपश्यत्। सः कुठारिकः स्कन्धेन बहु भारम् ऊढ्वा कष्टेन गच्छन् आसीत्। तं दृष्ट्वा दयया छद्मरूपधारिणा भोजेन सः पृष्टः — “किं भारं बहु बाधति भवन्तम्?” इति। तदा सः कुठारिकः प्रत्युत्तरितवान्– “न मां बाधते भारं यथा बाधते ‘बाधति’ इति। एवं बाध् धातुः आत्मेपदी इति सूचयित्वा छद्मवेषधारिणः तस्य राज्ञः दोषञ्च प्रकटितवान्। सामान्यः कुठारिकः अपि भाषायाः प्रयोगे कियता सावधानेन व्यवहरति स्म इति ज्ञायते! विद्यायाः ज्ञानस्य वा विषये भोजराजस्य राज्ये प्रजानाम् एतादृशी श्रद्धा निष्ठा च आसीत्।
~Another lesson awaits for his highness. About right expression/usage!
इतोऽपि एकस्मिन् दिने एकः विप्रः कस्मिन्नपि जलपूरिते तडागे मन्दं मन्दं चलित्वा तीरं प्रति आगच्छन्नासीत्। तं दृष्ट्वा भोजराजः अपृच्छत् — कियन्मात्रं जलं विप्र? इति। सोऽपि प्रत्युत्तरितवान्- जानुदघ्नं नराधिप! इति! एवं मात्रम् इति अस्य पदस्य प्रयोगः दुष्यति इति सूचयित्वा दघ्नम् इति प्रयोगः वरम् इति राजानं सूचितवान्।~
Once The king desired to invite a great scholar to his kingdom and hence provide a permanent dwelling place in his capital city. Housing crisis of those days. No empty house was found!
अपरस्मिन् अवसरे एकदा द्रविडदेशस्थस्य लक्ष्मीधरकवेः वैदुष्यात् प्रसन्नः भूत्वा भोजराजः मुख्यम् अमात्यं प्राह — “अस्मै विदुषे धारानगर्यां गृहं दीयताम्” इति। एवं तस्य संसर्गेण अस्माकं सर्वेषामपि ज्ञानस्य वर्धनं भवेत् इति। तस्मिन् अवसरे धारानगर्याम् एकमपि रिक्तं गृहं नैवासीत्।
The house hunt happened by a unique plan! Alright! Solution to housing crisis- Let an illiterate vacate and make home for this scholar!
तदा ‘यः कोऽपि निरक्षरः मूर्खः वा भवति तं निष्कास्य अस्मै पण्डिताय वासस्थानं दीयताम्’ इति राजा आदिष्टवान्। किञ्चित् कालम् अन्विष्य ‘न कमपि निरक्षरं अपश्यम्’ इति नगरपालः राजानं सूचितवान्। तदा राजा तं पुनः एवम् आदिष्टवान् — ‘यः नागरिकः काव्यं रचयितुं न जानाति तं गृहात् निष्कास्यताम्’ इति।
House hunting continues with further ifs and buts! He who canot compose a poem shall vacate! A busy weaver admits inadvertently that he cannot compose poetry!
नगरपालः कवित्वकौशलं विहीनं जनम् अन्विष्यन् अन्ते कस्यचित् कुविन्दस्य गृहं प्राप्तवान्। तं विलोक्य नगरपालः अपृच्छत् — किम् भवान् काव्यं रचयितुं समर्थः इति। सः तन्तुवायः स्वकर्मणि व्यापृतः आसीत् तथा काव्यं कर्तुम् असमर्थतां प्राकटयत्। तदा सः नगरपालः तन्तुवायं प्रति एवम् अवदत् “कुविन्द, गृहात् बहिः निःसर। तव गृहं एकस्मै विदुषे दातव्यम्” इति।
The grand finale! The weaver walks to the palace. To vacate or not to vacate is the question!
तदा कुविन्दः अपि कुपितः भूत्वा राजभवनं प्राप्य राजानं प्रणम्य “देव, अमात्यः मां मूर्खं मत्वा नगराद् निष्कासयितुम् इच्छति। अहं मूर्खः वा पण्डितः वा इति भवान् एव निर्णेता” इति उक्त्वा श्लोकम् एनम् अवदत् –
काव्यं करोमि नहि चारुतरं करोमि यत्नात्करोमि यदि चारुतरं करोमि।
भूपालमौलिमणिमण्डितपूज्यपाद हे भोजराज कवयामि वयामि यामि॥
I write poetry but I am not adept at it! If I put my effort into it, may be I can write better poems. Oh king you are one of the greatest gems among kings! I humbly just want to suggest that I just compose, I weave and I move on with life! (In the last three words, he weaved this terrific expression by dropping letters one by one …. कवयामि वयामि यामि ! I compose… I weave… I go on with life!
एतादृशः प्रयोगः गोपुच्छ्यति इति अभिधीयते! कुविन्दस्य वचनं श्रुत्वा प्रसन्नः राजा तस्मै तन्तुवायाय सुवर्णनाणकान् दत्त्वा सम्मानितवान्। लक्ष्मीधरः पण्डितः तु राज्ञः प्रासादे अतिथिरूपेण वासयितव्यः इति आदिष्टवान्।